|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.95. अध्यायः 095
Mahabharata - Vana Parva - Chapter Topics
विदर्भराजेन सन्तानार्थं कन्यां कामयमानायागस्त्याय लोपामुद्राया यथाविधि प्रदानम् ॥ 1 ॥ अगस्त्येन लोपामुद्राया महार्हवसनाभरणत्याजनेन वल्कलादिग्राहणपूर्वकं स्वाश्रमंप्रत्यानयनम् ॥ 2 ॥ ऋतुकाले समाहूतया तया महार्हवसनाभरणानि याचितेनागस्त्येन तत्संपादनाय प्रस्थानम् ॥ 3 ॥
Mahabharata - Vana Parva - Chapter Text
लोमश उवाच। 3-95-0x(2011)(19885)
यदात्वमन्यतागस्त्यो गार्हस्थ्ये तां क्षमामिति।
तदाऽभिगम्य प्रोवाच वैदर्भं पृथिवीपतिम् ॥ 3-95-1(19886)
राजन्निवेशे बुद्धिर्मे वर्तते पुत्रकारणात्।
वरयेत्वां महीपाल लोपामुद्रां प्रयच्छ मे ॥ 3-95-2(19887)
एवमुक्तः स मिनिना महीपालो विचेतनः।
प्रत्याख्यानाय चाशक्तः प्रदातुं चैव नैच्छत ॥ 3-95-3(19888)
ततः स भार्यामभ्येत्य प्रोवाच पृथिवीपतिः।
महर्षिर्वीर्यवानेष क्रुद्धः शापाग्निना दहेत् ॥ 3-95-4(19889)
तं तथा दुःखितं दृष्ट्वा सभार्यं पृथिवीपतिम्।
लोपामुद्राऽभिगम्येदं काले वचनमब्रवीत् ॥ 3-95-5(19890)
न मत्कृते महीपाल पीडामभ्येतुमर्हसि।
प्रयच्छ मामगस्त्याय त्राह्यात्मानं मया पितः ॥ 3-95-6(19891)
दुहितुर्वचनाद्राजा सोऽगस्त्याय महात्मने।
लोपामुद्रां ततः प्रादाद्विधिपूर्वं विशांपते ॥ 3-95-7(19892)
प्राप्य भार्यामगस्त्यस्तु लोपामुद्रामभाषत।
महार्हाण्युत्सृजैतानि वासांस्याभरणानि च ॥ 3-95-8(19893)
ततः सा दर्शनीयानि महार्हाणि तनूनि च।
समुत्ससर्ज रम्भोरूर्वसनान्यायतेक्षणा ॥ 3-95-9(19894)
ततश्चीराणि जग्राह वल्कलान्यजिनानि च।
समानव्रतचर्या च बभूवायतलोचना ॥ 3-95-10(19895)
गङ्गाद्वारमथागम्य भगवानृषिसत्तमः।
उग्रमातिष्ठत तपः सह पत्न्याऽनुकूलया ॥ 3-95-11(19896)
सा प्रीत्या बहुमानाच्च पतिं पर्यचरत्तदा।
अगस्त्यश्च परां प्रीतिं भार्यायामगमत्प्रभुः ॥ 3-95-12(19897)
ततो बहुतिथे काले लोपामुद्रां विशांपते।
तपसा द्योतितां स्नातां ददर्श भगवानृषिः ॥ 3-95-13(19898)
स तस्याः परिचारेण शौचेन च दमेन च।
श्रिया रूपेण च प्रीतो मैथुनायाजुहाव ताम् ॥ 3-95-14(19899)
ततः सा प्राञ्जलिर्भूत्वा लज्जमानेव भामिनी।
तदा सप्रणयं वाक्यं भगवन्तमथाब्रवीत् ॥ 3-95-15(19900)
असंशयं प्रजाहेतोर्भार्यां पतिरविन्दत।
पा तु त्वयि मम प्रीतिस्तामृषे कर्तुमर्हसि ॥ 3-95-16(19901)
यथा पितुर्गृहे विप्र प्रासादे शयनं मम।
तथाविधे त्वं शयने मामुपैतुमिहार्हसि ॥ 3-95-17(19902)
इच्छामि त्वां स्रग्विणं च भूषणैश्च विभूषितम्।
उपसर्तुं यथाकामं दिव्याभरणभूषिता ॥ 3-95-18(19903)
अन्यथा नोपतिष्ठेयं चीरकाषायवासिनी।
नैवापवित्रो विप्रर्षे भूषणोयं कथंचन ॥ 3-95-19(19904)
अगस्त्य उवाच। 3-95-20x(2012)
न ते धनानि विद्यन्ते लोपामुद्रे तथा मम।
यथाविधानि कल्याणि पितुस्तव सुमध्यमे ॥ 3-95-20(19905)
लोपामुद्रोवाच। 3-95-21x(2013)
ईशोसि तपसा सर्वं समाहर्तुं तपोधन।
क्षणेन जीवलोके यद्वसु किंचन विद्यते ॥ 3-95-21(19906)
अगस्त्य उवाच। 3-95-22x(2014)
एवमेतद्यथाऽऽत्थ त्वं तपोव्ययकरं तु तत्।
यथा तु मे न नश्येत तपस्तन्मां प्रयोदय ॥ 3-95-22(19907)
लोपामुद्रोवाच। 3-95-23x(2015)
अल्पावशिष्टः कालोऽयमृतोर्मम तपोधन।
न चान्यथाऽहमिच्छामि त्वामुपैतुं कथंचन ॥ 3-95-23(19908)
न चापि धर्ममिच्छामि विलोप्तुं ते कथंचन।
एवं तु मे यथाकामं संपादयितुमर्हसि ॥ 3-95-24(19909)
अगस्तय उवाच। 3-95-25x(2016)
3-95-25(19910)
यद्येष काम सुभगे तव बुद्ध्या विनिश्चितः।
हर्तुं गच्छाम्यहं भद्रे चर काममिह स्थिता ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-95-2 निवेशे विवाहे ॥ 3-95-13 स्नातां ऋताविति शेषः ॥ 3-95-14 परिचारेण सेवया ॥ 3-95-19 भूषणोयं चीरकाषायादिस्तपस्विनां श्लाघ्योयं सामग्रीकलापो भोगसंपर्केणापवित्रो नैव भवत्विति शेषः ॥ 3-95-21 समाहर्तुं ममेप्सितमिति क. ध. पाठः ॥ 3-95-23 ऋतोः कालः षोडशदिनानि तेषु अल्पोऽवशिष्टः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|